मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २४, ऋक् ४

संहिता

यश्चि॒द्धि त॑ इ॒त्था भगः॑ शशमा॒नः पु॒रा नि॒दः ।
अ॒द्वे॒षो हस्त॑योर्द॒धे ॥

पदपाठः

यः । चि॒त् । हि । ते॒ । इ॒त्था । भगः॑ । श॒श॒मा॒नः । पु॒रा । नि॒दः ।
अ॒द्वे॒षः । हस्त॑योः । द॒धे ॥

सायणभाष्यम्

हे सवितर्यो भगो भजनीयो धनविशेषस्ते तव हस्तयोर्दधे धृतोऽभूत्तं धनविशेषमीमह इति पूर्वत्रान्वयः । चिच्छब्धः पूजार्थे हिशब्दः प्रसिद्धौ । धनस्य पूज्यत्वं सर्वत्र प्रसिद्धम् । तामेव पूज्यत्वप्रसिद्धिं विसदयति । इत्था शशमानोऽनेन प्रकारेण शस्यमानः स्तूयमानः । धनस्तुतिप्रकारं च सर्वे जानंति । ननु स्वकीये धने वैरिभिरपहृते सति वैरिगृहीतं धनं सर्वो लोको निंदति द्वेष्टि च । अतो धनस्तुतिर्न नियतेत्याशंक्याह । निदः पुरा अद्वेषो निंदायाः पूर्वं स्वकीयत्वेन व्यवस्थिते सति तदानीं द्वेषरहितः । तस्मात्स्वकीयत्वाभिप्रायेण स्तूयमानत्वमुक्तमित्यर्थः ॥ इत्था । प्रकारवचन इदमस्थमुः (पा ५-३-२४) सुपां सुलुगिति व्यत्ययेन विभक्तेर्डादेशः । टलोप उदात्तनिवृत्तिस्वरेणाकार उदात्तः । शशमानः । शशप्लुतगतौ । इह तु स्तुत्यर्थः । ताच्छील्यवयोवचनेति (पा ३-२-१२९) ताच्छीलकश्चानश् । कर्तरि शप् । पित इत्यंतोदात्तत्वम् । निदः । णिदि कुत्सायाम् । संपदादिलक्षणः क्विप् । सावेकाच इति पंचम्या उदात्तत्वम् । अद्वेषः । न विद्यते द्वेषोऽस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । दधे । कर्मणि लिट् । तस्यार्धधातुकत्वेनाभ्यस्तानामादिरित्याद्युदात्तो न भवति । प्रत्ययस्वर एव शिष्यते । यद्द्वृत्तयोगान्निघाताभावः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३