मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २४, ऋक् ५

संहिता

भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा ।
मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥

पदपाठः

भग॑ऽभक्तस्य । ते॒ । व॒यम् । उत् । अ॒शे॒म॒ । तव॑ । अव॑सा ।
मू॒र्धान॑म् । रा॒यः । आ॒ऽरभे॑ ॥

सायणभाष्यम्

हे सवितः ते त्वदीया वयं शुनःशेपनामानो भगभक्तस्य धनेन संयुक्तस्य तवावसा रक्षणेनोदशेम । उत्कर्षेण व्याप्नुमः । किं कर्तुम् । रायो धनस्य मूर्धानमुत्कर्षमारभे । प्रारब्धुम् । धनिकत्वप्रसिद्ध्या व्याप्ता भूयामेत्यथः भगशब्दो वृषादित्वादाद्युदात्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । अशेम । अशू व्याप्तौ । लिजि व्यत्ययेन परस्मैपदम् । शप् । रायः । ऊडिदमिति षष्ठ्या उदात्तत्वम् । आरभे । कृत्यार्थे तवैकेनिति तुमर्थे केन्प्रत्ययः । नित्स्वरेणाद्युदात्तत्वं ॥ १३ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३