मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २४, ऋक् ६

संहिता

न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः ।
नेमा आपो॑ अनिमि॒षं चर॑न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म् ॥

पदपाठः

न॒हि । ते॒ । क्ष॒त्रम् । न । सहः॑ । न । म॒न्युम् । वयः॑ । च॒न । अ॒मी इति॑ । प॒तय॑न्तः । आ॒पुः ।
न । इ॒माः । आपः॑ । अ॒नि॒ऽमि॒षम् । चर॑न्तीः । न । ये । वात॑स्य । प्र॒ऽमि॒नन्ति॑ । अभ्व॑म् ॥

सायणभाष्यम्

अथ सवित्रा प्रेरितः शुनःशेप एतदादिसूक्तशेषेणोत्तरेण च सूक्तेन वरुणं तुष्टाव । तथा च श्रूयते । तं सवितोवाच वरुणाय वै राज्ञे नियुक्तोऽसि तमेवोपधावेति स वरुणं राजानमुपससारात उत्तराभिरेकविशंता । ऐ ब्रा ७-१६ । इति । हे वरुण पतयंतः प्रौढे वियत्युत्पतंतोऽमी दृश्यमाना वयश्चन श्येनादयः पक्षिणोऽपि ते क्षत्रं त्वदीयं शरीरबलं न ह्यापुः । नैव प्राप्ताः । त्वत्सदृशं शरीरबलं पक्षिणामपि नास्तीत्यर्थः । तथा सहस्त्वदीयं पराक्रमं तव सामर्थ्यमपि न प्रापुः । तथा मन्युं त्वदीयं कोपमपि न प्रापुः । त्वयि क्रुद्धे सति सोढुमशक्ता इत्यर्थः । अनिमिषं सर्वदा चरंतीः प्रवाहरूपेण गच्छंत्य आपस्त्वदीयं बलं न प्रापुः । वातस्य वायोर्ये गतिविशेषास्त्वदीयमभ्वं वेगं न प्रमिनंति न हिंसंति । अतिक्रमं कर्तुं न शक्ता इत्यर्थः । तेऽपि न प्रापुरिति पूर्वात्रान्वयः ॥ पतयंतः । पत गतौ । चुरादिरदंतः । लटः शतृ । शप् । गुणायादेशौ । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे णिचः स्वरः । आपुः आप्लृ गतौ । लिट्युसि द्विर्भावहलादिशेषौ । अत आदेः (पा ७-४-७०) इत्यात्वम् । आप्लृ गतौ । लिट्युसि द्विर्भावहलादिशेषौ । अत आदेः (पा ७-४-७०) इत्यात्वम् । अत्र न सहो न मन्युमित्यादिभिरापुरित्यस्य संबंधात्तदपेक्षया प्राथम्याच्चादिलोपे विभाषेति प्रथमा तिङ्विभक्तिर्न निहन्यते । चरंतीः वा छंदसीति पूर्वसवर्णदीर्घः । प्रमिनंति । मीञ् हिंसायाम् । त्यादिभ्यः श्ना । श्नाभ्यस्तयोरातः (पा ६-४-११२) इत्याकारलोपः । मीनातेर्निगमे (पा ७-३-८१) इति ह्रस्वत्वम् । प्रत्यय । स्वरः । तिङि चोदात्तवति (पा ८-१-७१) इति गतिरनुदात्तः । यद्वृत्तयोगादनिघातः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४