मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २४, ऋक् ९

संहिता

श॒तं ते॑ राजन्भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु ।
बाध॑स्व दू॒रे निरृ॑तिं परा॒चैः कृ॒तं चि॒देन॒ः प्र मु॑मुग्ध्य॒स्मत् ॥

पदपाठः

श॒तम् । ते॒ । रा॒ज॒न् । भि॒षजः॑ । स॒हस्र॑म् । उ॒र्वी । ग॒भी॒रा । सु॒ऽम॒तिः । ते॒ । अ॒स्तु॒ ।
बाध॑स्व । दू॒रे । निःऽऋ॑तिम् । प॒रा॒चैः । कृ॒तम् । चि॒त् । एनः॑ । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥

सायणभाष्यम्

हे राजन्वरुण ते तव शतं भिषजो बंधनिवारकाणि शतसंख्याकान्यौषधानि वैद्या वा संति । ते तव सुमतिरस्मदनुग्रहबुद्धिरुर्वी विस्तीर्णा गभीरा गांभीर्योपेता स्थिरास्तु । निर्ऋृतिमस्मदनिष्टकारिणीं निर्ऋृतिं पापदेवतां पराचैः पराङ्मुखां कृत्वा दूरेऽस्मत्तो व्यवहिते देशे स्थापयित्वा तां बाधस्व । कृतं चिदस्माभिरनुष्ठि तमप्येनः पापमस्मत् प्रमुमुग्धि । प्रकर्षेण मुक्तं नष्टं कुरु ॥ सुमतिः । तादौ चेति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते मन् क्तिन्नित्यादिनोत्तरपदांतोदात्तत्वम् । संहितायां विसर्जनीयसकारस्य युष्मत्तत्ततक्षुःष्वंतःपादम् (पा ८-३-१०३) इति षत्वम् । बाधस्व बाधृ विलोडने । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । निर्ऋृतिम् । तादौ चेति गतेः प्रकृतिस्वरत्वम् । मुमुग्धि । मुच्लृ मोक्षणे । बहुलं छंदसीति श्लुः । हुझल्भ्यो हेर्धिः (पा ६-४-१०१) तस्यापित्त्वेन ङित्त्वा द्गुणाभावः । चोः कुः (पा ८-२-३०) इति कुत्वं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४