शुन॒ःशेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः ।
अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥
शुनः॒शेपः॑ । हि । अह्व॑त् । गृ॒भी॒तः । त्रि॒षु । आ॒दि॒त्यम् । द्रु॒ऽप॒देषु॑ । ब॒द्धः ।
अव॑ । ए॒न॒म् । राजा॑ । वरु॑णः । स॒सृ॒ज्या॒त् । वि॒द्वान् । अद॑ब्धः । वि । मु॒मो॒क्तु॒ । पाशा॑न् ॥
गृभीतो बंधनाय गृहीतस्त्रिसंख्याकेषु द्रुपदेषु द्रोः काष्ठस्य यूपस्य पदेषु प्रदेशविशेषेषु बद्धः शुनःशेप आदित्यमदितेः पुत्रं यं वरुणमह्वत् आहूतवान् । हि यस्मादेवं तस्मात्स वरुणो राजैनं शुनःशेपमव ससृज्यात् । अवसृष्टं बंधनाद्विमुक्तं करोतु । विमोकप्रकार एव स्पष्टीक्रियते । विद्वान् विमोकप्रकाराभिज्ञः अदब्धः केनाप्यहिंसितो वरुणः पाशान्बंधनरज्जुविशेषान्वि मुमोक्त । विच्छिद्यैनं मुक्तं करोतु ॥ त्रिषु षट् त्रिचतुर्भ्यो हलादिः पा ६-१-१७९ । इति विभक्तेरुदात्तत्वम् । संहितायामुदात्तस्वरितयोर्यण इति पर आकारः स्वर्यते । ससृज्यात् । सृज विसर्गे । प्रार्थनायां लिङ् । बहुलं छंदसीति विकरणस्य श्लुः । विद्वान् । विद ज्ञाने । विदेः शतुर्वसुः (पा ७-१-३६) उगिदचामिति नुम् । हल्ङ्यादिसंयोगांतलोपौ । संहितायां दीर्घादट समानपाद इति नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः । अदब्धः । दन्भु दंभे । निष्ठायामनिदितामिति नलोपे झषस्तथोर्धोऽधः (पा ८-२-४०) इति धत्वम् । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ १३ ॥