मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २४, ऋक् १४

संहिता

अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भि॑ः ।
क्षय॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां॑सि शिश्रथः कृ॒तानि॑ ॥

पदपाठः

अव॑ । ते॒ । हेळः॑ । व॒रु॒ण॒ । नमः॑ऽभिः । अव॑ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । ह॒विःऽभिः॑ ।
क्षय॑न् । अ॒स्मभ्य॑म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति॑ प्रऽचेतः । राज॑न् । एनां॑सि । शि॒श्र॒थः॒ । कृ॒तानि॑ ॥

सायणभाष्यम्

अवभृथेऽव ते हेळ इति द्वे ऋचौ वारुणस्य हविषो याज्यानुवाक्ये । पत्नीसंयाजैश्चरित्वेति खंडे सूत्रितम् । अव ते हेळो वरुण नमोभिरिति द्वे (आ ६-१३) इति ॥

हे वरुण ते तव हेळः क्रोधं नमोभिर्नमस्कारैरवेमहे । अवनयामः । तथा यज्ञैः सांगानुष्ठानेन पूज्यैर्हविर्भिरवेमहे । वरुणं परितोष्य क्रोधमपनयामः । हे असुरानिष्वक्षेपणसील प्रचेतः प्रकर्षेण प्रज्ञायुक्त राजन् दीप्यमान वरुणास्मभ्यमस्मदर्थं क्षयन्नस्मिन्कर्मणि निवसन्कृतान्यस्माभिरनुष्ठितान्येनांसि पापानि शिश्रथः । श्रथितानि शिथिलानि कुरु ॥ हेळः । असुनो नित्त्वादाद्युदात्तत्वम् । यज्ञेभिः । बहुलं छंदसीत्यैसभावः । ईमहे । ईङ् गतौ । विकरणस्य लुक् । क्षयन् । क्षिनिवासगत्योः । लटः शतृ । व्यत्ययेन शप् । आमंत्रिताद्युदात्तत्वम् । असुर । असेरुरन् (उ १-४३) आमंत्रितनिघातः । शिश्रथः । श्रथ दौर्बल्ये । चुरादिरदंतः । छांदसे लुङि णिश्रिद्रुस्रुभ्यः (पा ३-१-४८) इति च्लेश्चङ् । द्विर्भावहलादिशेषौ । अग्लोपित्त्वात् सन्वद्भावाभावेऽपि (पा ७-४-९३) बहुलं छंदसि (पा ७-४-७८) इत्यभ्यासस्येत्वम् । पूर्ववदडभावः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५