मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् १

संहिता

यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् ।
मि॒नी॒मसि॒ द्यवि॑द्यवि ॥

पदपाठः

यत् । चि॒त् । हि । ते॒ । विशः॑ । य॒था॒ । प्र । दे॒व॒ । व॒रु॒ण॒ । व्र॒तम् ।
मि॒नी॒मसि॑ । द्यवि॑ऽद्यवि ॥

सायणभाष्यम्

हे वरुण यथा लोके विशः प्रजाः कदाचित्प्रमादं कुर्वंति तथा वयमपि ते तव संबंधि यच्छिद्धि यदेव किंचिद्व्रतं कर्म द्यवि द्यवि प्रतिदिनं प्रमिनीमसि प्रमादेन हिंसितवंतः । तदपि व्रतं प्रमादपरिहारेण सांगं कुर्विति शेषः ॥ यथा लित्सर्वेणाद्युदात्तत्वे प्राप्ते यथेति पादांते (फि ४-१७) इति सर्वानुदात्तत्वं मिनीमसि मीञ् हिंसायाम् । इदंतो मसिः । क्रादिभ्यः श्ना । मीनातेर्निगमे (पा ७-३-८१) इति ह्रस्वत्वम् । ई हल्यघोरितीकारः । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वचनात्तिङ एव स्वरः शिष्यते । यद्वृत्तयोगान्निघाताभावः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६