वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तम् ।
गी॒र्भिर्व॑रुण सीमहि ॥
वि । मृ॒ळी॒काय॑ । ते॒ । मनः॑ । र॒थीः । अश्व॑म् । न । सम्ऽदि॑तम् ।
गीः॒ऽभिः । व॒रु॒ण॒ । सी॒म॒हि॒ ॥
हे वरुण मृळीकायास्मत्सुखाय ते तव गीर्भिः ॥ स्तुतिभिर्वि सीमहि । विशेषेण बध्नीमः । प्रसादयाम इत्यर्थः । तत्र दृष्टांतः । रथीः रथस्वामी संदितं सम्यक् खंडितं दूरगमनेन श्रांतमश्वं न अश्वमिव । यथा स्वामी श्रांतमश्वं घासप्रदानादिना प्रसादयति तद्वत् ॥ रथी ॥ । मत्वर्थीय ईकारः । संदितम् । दो अवखंडने । निष्ठेति क्तः । द्युतिस्यतिमास्थाम् (पा ७-४-४०) इतीकारांतादेश । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । गीर्भिः । सावेकाच इति भिस उदात्तत्वम् । सीमहि । षिवु तंतुसंताने । व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति विकरणस्य लुक् । वलिलोप (पा ६-१-६६) यद्वा । षिञ् बंधन इत्यस्माद्विकरणस्य लुक् । दीर्घश्छांदसः ॥ ३ ॥