मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् ४

संहिता

परा॒ हि मे॒ विम॑न्यव॒ः पत॑न्ति॒ वस्य॑इष्टये ।
वयो॒ न व॑स॒तीरुप॑ ॥

पदपाठः

परा॑ । हि । मे॒ । विऽम॑न्यवः । पत॑न्ति । वस्यः॑ऽइष्टये ।
वयः॑ । न । व॒स॒तीः । उप॑ ॥

सायणभाष्यम्

हे वरुण मे मम शुनःशेपस्य विमन्यवः क्रोधरहिता बुद्धयो वस्यइष्टये वसीयसोऽतिशयेन वसुमतो जीवनस्य प्राप्तये परा पतंति । पराङ्मुखाः पुनरावृत्तिरहिताः प्रसरंति । हिशब्दोऽस्मिन्नर्थे सर्वजनप्रसिद्धिमाह । परापतने दृष्टांतः । वयो न । पक्षिणो यथा वसतीर्निवासस्थानान्युप सामीप्येन प्राप्नुवंति तद्वत् ॥ पतंति । पादादित्वान्निघाताभावः वस्य इष्टये वसुमच्छब्दाद्विन्मतोर्लुगिति मतुपो लुकि टलोप ईयसुनो यकारलोपश्छांदसः । वसतीः । शतुरनुम इति ङीप उदात्तत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६