मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् ५

संहिता

क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे ।
मृ॒ळी॒कायो॑रु॒चक्ष॑सम् ॥

पदपाठः

क॒दा । क्ष॒त्र॒ऽश्रिय॑म् । नर॑म् । आ । वरु॑णम् । क॒रा॒म॒हे॒ ।
मृ॒ळी॒काय॑ । उ॒रु॒ऽचक्ष॑सम् ॥

सायणभाष्यम्

मृळीकायास्मत्सुखाय वरुणं कदा कस्मिन्काल आ करामहे । अस्मिन्कर्मण्यागतं करवाम । कीदृशम् । क्षत्रश्रियम् । बलसेविनं नरं नेतारं उरुचक्षसं बहूनां द्रष्टारं ॥ क्षत्रश्रियम् । क्षत्राणि श्रयतीति क्षत्रश्रीः । क्विप् । वचीत्यादिना । पा ३-२-१७८-२ । क्विप् दीर्घश्च । कृदुत्तरपदपकृतिस्वरत्वम् । नरम् । ऋदोरबित्यबंत आद्युदात्तः । करामहे । करोतेर्व्यत्ययेन शप् । उरुचक्षसम् । चक्षेर्बहुलं शिच्च (उ ४-२३२) इत्यसुन् । शिद्वद्भावात्ख्याङादेशाभावः ॥ १६ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६