मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् ६

संहिता

तदित्स॑मा॒नमा॑शाते॒ वेन॑न्ता॒ न प्र यु॑च्छतः ।
धृ॒तव्र॑ताय दा॒शुषे॑ ॥

पदपाठः

तत् । इत् । स॒मा॒नम् । आ॒शा॒ते॒ इति॑ । वेन॑न्ता । न । प्र । यु॒च्छ॒तः॒ ।
धृ॒तऽव्र॑ताय । दा॒शुषे॑ ॥

सायणभाष्यम्

धृतव्रतायानुष्ठितकर्मणे दाशुषे हविर्दत्तवते यजमानाय वेनंतौ कामयमानौ मित्रावरुणाविति शेषः । तावुभौ समानं साधारणं तदिदमस्माभिर्दत्तं तदेव हविराशाते । अश्नुवाते । न प्रयुच्छतः । कदाचिदपि प्रमादं न कुरुतः ॥ आशाते । अश्नोतेर्लिट द्विर्भावहलादिशेषौ । अत आदेः (पा ७-४-७२) इति नुडभावः । वेनंता । वेनतिः कांतिकर्मा । सुपां सुलुगित्याकारः । प्र युच्छतः । युच्छ प्रमादे । दाशुषे । दाशृदान इत्यस्माद्दाश्वान् साह्वानिति क्वसुप्रत्ययो निपातितः । वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७