मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् ८

संहिता

वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः ।
वेदा॒ य उ॑प॒जाय॑ते ॥

पदपाठः

वेद॑ । मा॒सः । धृ॒तऽव्र॑तः । द्वाद॑श । प्र॒जाऽव॑तः ।
वेद॑ । यः । उ॒प॒ऽजाय॑ते ॥

सायणभाष्यम्

धृतव्रतः स्वीकृतकर्मविशेषो यथोक्तमहिमोपेतो वरुणः प्रजावत स्तदा तदोत्पद्यमानप्रजायुक्तान्द्वादशमासश्चैत्रादीन्फाल्गुनांतान्वेद । जानाति । यस्त्रयोदशोऽधिकमास उपजायते संवत्सरसमीपे स्वयमेवोत्पद्यते तमपि वेद । वाक्यशेषः पूर्ववत् ॥ मासः । पद्दन्नित्यादिना (पा ६-१-६३) मासशब्दस्य मासित्यादेशः । ऊडिदमित्यादिना शस उदात्तत्वम् । द्वादश । द्वौ च दश चेति द्वंद्वः । द्व्यष्टनः संख्यायाम् (पा ६-३-४७) इत्यात्वम् । संख्या (पा ६-२-३५) इति सूत्रेण पूर्वपदप्रकृतिस्वरत्वम् । प्रजावतः । जनी प्रादुर्भावे प्रपूर्वाज्जनसनखनक्रमगमो विट् प्रत्ययः (पा ३-२-६७) विड्वनोरित्यात्वम् (पा ६-४-४१) कृदुत्तरपदप्रकृति स्वरत्वम् । प्रजा एषां संतीति तदस्यास्त्यस्मिन्निति मतुप् (पा ५-२-९४) मादुपधायाः (पा ८-२-९) इति मतुपो वत्वम् । उपजायते । जनेः कर्मकर्तरि लट् । कर्मवद्भावादात्मनेपदं यक् (पा ३-१-८७) जनादीनामुपदेश एवात्वं वक्तव्यम् । पा ६-१-१९५ ३ । इति वचनादचः कर्तृयकि (पा ६-१-१९५) इत्याद्युदात्तत्वम् । तिङि चोदात्तवति (पा ८-१-७१) इत्युपसर्गस्य निघातः । न च तिङ्ङतिङ इति निघातः । यद्वृत्तान्नित्यमिति प्रतिषेधात् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७