मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् ९

संहिता

वेद॒ वात॑स्य वर्त॒निमु॒रोरृ॒ष्वस्य॑ बृह॒तः ।
वेदा॒ ये अ॒ध्यास॑ते ॥

पदपाठः

वेद॑ । वात॑स्य । व॒र्त॒निम् । उ॒रोः । ऋ॒ष्वस्य॑ । बृ॒ह॒तः ।
वेद॑ । ये । अ॒धि॒ऽआस॑ते ॥

सायणभाष्यम्

उरोर्विस्तीर्णस्य ऋष्वस्य दर्शनीयस्य बृहतो गुणैरधिकस्य वातस्य वायोर्वर्तनिं मार्गं वेद । वरुणो जानाति । ये देवा अध्यासते उपरि तिष्ठंति तानपि वेद । जानाति ॥ वातस्य । असिहसीत्यादिना (उ ३-८६) तन्प्रत्ययांतो वातशब्दो नित्त्वादाद्युदात्तः । वर्तनिम् । वर्ततेऽनेनेति वर्तनिः स्तोत्र इति स्तोत्रवाचकस्य वर्तनिशब्दस्यांतोदात्तत्वसिद्ध्यर्थमुंछादिषु पाठादस्य प्रत्ययस्वरेण मध्योदात्तत्वे प्राप्ते व्यत्ययेनांतोदात्तत्वम् । बृहतः । बृहन्महतोरुपसंख्यानमिति ङस उदात्तत्वम् । अध्यासते । लसार्वधातुकानुदात्तत्वे सति धातुस्वरः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७