मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् १०

संहिता

नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३॒॑स्वा ।
साम्रा॑ज्याय सु॒क्रतु॑ः ॥

पदपाठः

नि । स॒सा॒द॒ । धृ॒तऽव्र॑तः । वरु॑णः । प॒स्त्या॑सु । आ ।
साम्ऽरा॑ज्याय । सु॒ऽक्रतुः॑ ॥

सायणभाष्यम्

धृतव्रतः पूर्वोक्तो वरुणः पस्त्यासु दैवीषु प्रजास्वा नि षसाद । आगत्य निषण्णवान् । किमर्थम् । प्रजानां साम्राज्यसिद्ध्यर्थं सुक्रतुः शोभनकर्मा ॥ निषसाद । सदेरप्रतेः (पा ८-३-६६) इति षत्वम् । साम्राज्याय । सम्राजो भावः । साम्राज्यम् । गुणवचनब्राह्मणादिभ्यः (पा ५-१-१२४) इति ष्यञ् । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम् । सुक्रतुः । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वं ॥ १७ ॥ १० ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७