मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् १२

संहिता

स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत् ।
प्र ण॒ आयूं॑षि तारिषत् ॥

पदपाठः

सः । नः॒ । वि॒श्वाहा॑ । सु॒ऽक्रतुः॑ । आ॒दि॒त्यः । सु॒ऽपथा॑ । क॒र॒त् ।
प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥

सायणभाष्यम्

सुक्रतुः शोभनप्रज्ञः स आदित्यो वरुणो विश्वाहा सर्वेष्वहःसु नोऽस्मान् सुपथा शोभनमार्गेण सहितान्करत् । करोतु । किंच नोऽस्माकमायूंषि प्र तारिषत् । प्रवर्धयतु । सुपथा । स्वती पूजायाम् (पा २-२-१८) इति समासे न पूजानात् (पा ५-४-६९) इति समासांतप्रतिषेधः । अव्ययपूर्वपदप्रकृतिस्वरेप्राप्ते परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । क्रत्वादयश्चेत्येतन्न भवति अबहुव्रीहित्वात् । बहुव्रीहौ हि तद्विधीयते । आद्युदात्तं द्व्यच्छंदसि (पा ६-२-११९) इत्येतदपि न भवति । पथिन् शब्दस्यांतोदात्तत्वात् । करत् । करोतेर्लेट व्यत्ययेन शप् । शपो लुकि लेटोऽडाटावित्यडागमः । इतश्च लोप इतीकारलोपः । यद्वा । छांदसे लुङि कृमृदृरुहिभ्यः (पा ३-१-५९) इति च्लेरङ् । ऋदृशोऽङि गुणः (पा ७-४-१६) इति गुणः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । प्र णः । उपसर्गाद्बहुलम् (पा ८-४-२८) इति नसो णत्वम् । तारिषत् । तारयतेर्लेट्यडागमः । सिब्बहुलं लेटीति सिप् । आदेशप्रत्यययोरिति षत्वं ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८