मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् १५

संहिता

उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या ।
अ॒स्माक॑मु॒दरे॒ष्वा ॥

पदपाठः

उ॒त । यः । मानु॑षेषु । आ । यशः॑ । च॒क्रे । असा॑मि । आ ।
अ॒स्माक॑म् । उ॒दरे॑षु । आ ॥

सायणभाष्यम्

उतापि च यो वरुणो मानुषेषु यशोऽन्नमा चक्रे सर्वतः कृतवान् स वरुणः कुर्वन्नप्या सर्वत असामि । संपूर्ण चक्रे न तु न्यूनं कृतवान् । विशेषतोऽस्माकमुदरेष्वा सर्वतश्चक्रे ॥ मानुषेषु । मनोर्जातावञ्यतौ षुक् च (पा ४-१-१६१) इत्यञ् । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम् । चक्रे । प्रत्ययस्वरः असामि । अव्यये नञ् कुनिपातानामिति वक्तव्यम् । पा ६-२-२-३ । इत्यव्ययपूर्वपदप्रकृतिस्वरत्वम् । यशः । अशेर्युट्च (उ ४-१९०) इत्यसुन् । उदरेषु । उदि दृणातेरजलौ पूर्वपदांत्यलोपश्च (उ ५-१९) इत्यल् । लित्स्वरः । गतिकारकोपपदादित्युत्तरपदप्रकृतिस्वरत्वं ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८