मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् १६

संहिता

परा॑ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू॑ती॒रनु॑ ।
इ॒च्छन्ती॑रुरु॒चक्ष॑सम् ॥

पदपाठः

परा॑ । मे॒ । य॒न्ति॒ । धी॒तयः॑ । गावः॑ । न । गव्यू॑तीः । अनु॑ ।
इ॒च्छन्तीः॑ । उ॒रु॒ऽचक्ष॑सम् ॥

सायणभाष्यम्

उरुचक्षसम् । बहुभिर्द्रष्टव्यं वरुणमिच्छंतीर्मे धीतयः शुनःशेपस्य बुद्धयः परा यंति । पराङ्मुखा निवृत्तिरहिता गच्छंति । तत्र दृष्टांतः । गावो न । यथा गावो गव्यूतीरनु गोष्ठान्यनुलक्ष्य गच्छंति तद्वत् ॥ गव्यूतीः । गावोऽत्र यूयंत इत्यधिकरणे क्तिन् । गोर्यूतौ छंदसि । पा ६-१-७९-२ । इत्यवादेशः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । यूतिर्यवनम् । गवां यवनमत्रेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । इच्छंतीः । इषु इच्छायां लटः शतृ । तुदादिभ्यः शः । इषुगमियमां छः (पा ७-२-७७) इति छत्वम् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९