मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् १७

संहिता

सं नु वो॑चावहै॒ पुन॒र्यतो॑ मे॒ मध्वाभृ॑तम् ।
होते॑व॒ क्षद॑से प्रि॒यम् ॥

पदपाठः

सम् । नु । वो॒चा॒व॒है॒ । पुनः॑ । यतः॑ । मे॒ । मधु॑ । आऽभृ॑तम् ।
होता॑ऽइव । क्षद॑से । प्रि॒यम् ॥

सायणभाष्यम्

यतो यस्मात्कारणान्मे मज्जीवनार्थं मधुरं हविराभृतं अंजःसवाख्ये कर्मणि संपादितं अतः कारणाद्धोतेव होमकर्तेव त्वमपि प्रियं हविः क्षदसे । अश्नासि । पुनर्हविःस्वीकारादूर्ध्वं तृप्तस्त्वं जीवन्नहं च नु अवश्यं सं वोचावहै । संभूय प्रियवार्तां करवावहै ॥ वोचावहै । लोडर्थे छांदसे लुङि ब्रुवो वचिः । अस्यतिवक्तीति च्लेरङादेशः । वच उमित्युमागमे गुणः । व्यत्ययेन टेरैत्वम् । यद्वा । लोट एव लुङादेशः । स्थानिवद्भावादैत्वम् । आभृतम् । हृग्रहोर्भः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९