मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् १८

संहिता

दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑ ।
ए॒ता जु॑षत मे॒ गिरः॑ ॥

पदपाठः

दर्श॑म् । नु । वि॒श्वऽद॑र्शतम् । दर्श॑म् । रथ॑म् । अधि॑ । क्षमि॑ ।
ए॒ताः । जु॒ष॒त॒ । मे॒ । गिरः॑ ॥

सायणभाष्यम्

विश्वदर्शतं सर्वैर्दर्शनीयमस्मदनुग्रहार्थमत्राविर्भूतं वरुणं दर्शं नु । अहं दृष्टवान्खलु । क्षमि क्षमायां भूमौ रथं वरुणसंबंधिनमधि दर्शम् । आधिक्येन दृष्टवानस्मि । एता उच्यमाना मे गिरो मदीयाः स्तुतीर्जुषत । वरुणः सेवितवान् ॥ दर्शं दृशेरिरितो वा (पा ३-१-५७) इति च्लेरङादेशः । ऋदृशोऽङि गुणः (पा ७-४-१६) इति गुणः । विश्वदर्शतम् । दृशेर्भृमृदृशीत्यादिना (उ ३-१०९) अतच् प्रत्ययांतो दर्शतशब्दः । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । पा ६-२-१०६-२ । यद्वा । विश्वं दर्शनीयमस्येति बहुव्रीहिः । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । क्षमि । आतो धातोः (पा ६-४-१४०) इत्यत्रात इति योगविभागादाकार लोपः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९