मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् २०

संहिता

त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि ।
स याम॑नि॒ प्रति॑ श्रुधि ॥

पदपाठः

त्वम् । विश्व॑स्य । मे॒धि॒र॒ । दि॒वः । च॒ । ग्मः । च॒ । रा॒ज॒सि॒ ।
सः । याम॑नि । प्रति॑ । श्रु॒धि॒ ॥

सायणभाष्यम्

हे मेधिर मेधाविन्वरुण त्वं दिवश्च द्युलोकस्यापि ग्मश्च भूलोकस्यापि । एवमात्मकस्य विश्वस्य सर्वस्य जगतो मध्ये राजसि । दीप्यसे । स तादृशस्त्वं यामनि क्षेमप्रापणेऽस्मदीये प्रति श्रुधि । प्रतिश्रवणमाज्ञापनं कुरु । रक्षिष्यामीति प्रत्युत्तरं देहीत्यर्थः ॥ दिवम् । ऊडिदमित्यादिना षष्ठ्या उदात्तत्वम् । ग्मः । ग्मेत्येतद्भूनामसु पठितम् । आतो धातोरित्यत्रात इति योगविभागादातो लोप इति प्रतिषेधेऽपि व्यत्ययेनाकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । यामनि । या प्रापणे । आतो मनिन्क्वनिब्वनिपश्चेति मनिन् । नित्त्वादाद्युदात्तत्त्वम् । श्रुधि । उक्तं ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९