मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् २१

संहिता

उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं॑ मध्य॒मं चृ॑त ।
अवा॑ध॒मानि॑ जी॒वसे॑ ॥

पदपाठः

उत् । उ॒त्ऽत॒मम् । मु॒मु॒ग्धि॒ । नः॒ । वि । पाश॑म् । म॒ध्य॒मम् । चृ॒त॒ ।
अव॑ । अ॒ध॒मानि॑ । जी॒वसे॑ ॥

सायणभाष्यम्

नोऽस्माकमुत्तमं शिरोगतं पाशमुन्मुमुग्धि । उत्कृष्य मोचय । मध्यममुदरगतं पाशं विचृत । वियुज्य नाशय । जीवसे जेवितुमधमानि मदीयान्पादगतान्पाशानव चृत । अवकृष्य नाशय ॥ उत्तमम् । उंछादिषु पाठादंतोदात्तत्वम् । मुमुग्धि । मुच्लृ मोक्षणे । बहुलं छंदसीति विकरणस्य श्लुः । द्विर्भावः । हलादिशेषः । हुझल्भ्यो हेर्धिः (पा ६-४-१०१) इति हेर्धिरादेशः । तिङ्ङतिङ इति निघातः । चृत चृती हिंसाग्रंथनयोः । लोटो हि । तुदादिभ्यः शः । अतो हेरिति हेर्लुक् । जीवसे । जीव प्राणधारणे । तुमर्थे सेसेनित्यसेप्रत्ययः । प्रत्ययस्वरः ॥ १९ ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९