मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २६, ऋक् १

संहिता

वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते ।
सेमं नो॑ अध्व॒रं य॑ज ॥

पदपाठः

वसि॑ष्व । हि । मि॒ये॒ध्य॒ । वस्त्रा॑णि । ऊ॒र्जा॒म् । प॒ते॒ ।
सः । इ॒मम् । नः॒ । अ॒ध्व॒रम् । य॒ज॒ ॥

सायणभाष्यम्

वरुणेनाग्निस्तुतौ प्रेरितः शुनःशेप एतदादिसूक्तद्वयेनाग्निमस्तौत् । तथा चाम्नायते । तं वरुण उवाचाग्निर्वै देवानां मुखं सुहृदयतमस्तं नु सुह्यथत्वोत्स्रक्ष्याम इति सोऽग्निं तुष्टावात उत्तराभिर्द्वाविंशत्या । ऐ ब्रा ७-१६ । इति ॥ हे मियेध्य मेधस्य यज्ञस्य योग्य ऊर्जां पते अन्नानां पालकाग्ने वस्त्राण्याच्छादकानि तेजांसि वसिष्व । आच्छादय । प्रज्वलितस्तेजसा भवेत्यर्थः । हि यस्मात्प्रज्वलितस्तस्मात्स तादृशस्त्वं नोऽस्मदीयमिममध्वरं यज । निष्पादय ॥ वसिष्ट । वस आच्छादने । लोट थासः से । सवाभ्यां वामौ । छंदस्युभयथेत्यार्धधातुकत्वादार्धधातुकस्येड्वलादेरितीडागमः । लसार्वधातुकानुदात्तत्वे धातुस्वरः । अन्येषामपि दृश्यत इति संहितायां दीर्घः । मियेध्य । मकारैकारयोर्मध्य इयागमश्छांदसः । ऊर्जां पते । सुबामंत्रित इति परांगवद्भावात् षष्ठ्यामंत्रितस्य समुदायस्याष्टमिको निघातः । सेमम् । सोऽचि लोपेचेत्पादपूरणमिति सोर्लोपः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०