मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २६, ऋक् २

संहिता

नि नो॒ होता॒ वरे॑ण्य॒ः सदा॑ यविष्ठ॒ मन्म॑भिः ।
अग्ने॑ दि॒वित्म॑ता॒ वचः॑ ॥

पदपाठः

नि । नः॒ । होता॑ । वरे॑ण्यः । सदा॑ । य॒वि॒ष्ठ॒ । मन्म॑ऽभिः ।
अग्ने॑ । दि॒वित्म॑ता । वचः॑ ॥

सायणभाष्यम्

सदा यविष्ठ सर्वदा युवतम हे अग्ने वरेण्यो वरणीयस्त्वं नोऽस्माकं होता होमनिष्पादको भूत्वा दिवित्मका दीप्तिमता वचो वचसा स्तूयमानः सन् नि षीदेति शेषः । कीदृशस्त्वम् । मन्मभिर्ज्ञापकैस्तेजोभिर्युक्त इति शेषः ॥ यविष्ठ । युवशब्दादिष्ठनि स्थूलदूरेत्यादिना (पा ६-४-१५६) यणादिपरस्य लोपः । पूर्वस्योकारस्य गुणश्च । अवादेशः । आमंत्रितनिघातः । मन्मभिः । मन ज्ञाने । अन्येभ्योऽपि दृश्यंत इति मनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । दिवित्मता । दिवु क्रीडादौ । इक् श्तिपौ धातुनिर्देशे । पा ३-३-१०८-२ । इतीक् प्रत्ययः । तेन च धातुवाचिना दिविशब्देन धात्वर्थो दीप्तिर्लक्ष्यते । यद्वा । औणादिको भावे किप्रत्ययः दिविशब्दान्मतुपि तकारोपजनश्छांदसः यद्वा । बाहुलकाद्दिवेर्भाव इतक् । मतुपि तसौ मत्वर्थ इति भत्वाज्जश्त्वाभावः । वचः । सुपां सुलुगिति तृतीयैकवचनस्य लुक् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०