मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २६, ऋक् ३

संहिता

आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑ ।
सखा॒ सख्ये॒ वरे॑ण्यः ॥

पदपाठः

आ । हि । स्म॒ । सू॒नवे॑ । पि॒ता । आ॒पिः । यज॑ति । आ॒पये॑ ।
सखा॑ । सख्ये॑ । वरे॑ण्यः ॥

सायणभाष्यम्

हे अग्ने वरेण्यो वरणीयः पितापि पितृस्थानीयस्त्वं सूनवे पुत्रस्थानीयाय मह्यमभीष्वं देहेति शेषः । हि ष्मेति निपातद्वयं सर्वथेत्यमुमर्थमाचष्टे । अभीष्वदाने दृष्टांतद्वयमुच्यते । यथापिर्बंधुरापये बंधव आ यजति हि स्म । सर्वथा ददातीति शेषः । सखा प्रियः सख्ये प्रियायाभीष्टं सर्वथा ददाति तथा त्वमपि देहि ॥ स्मा सूनवे । निपातस्य चेति दीर्घः । यजतीत्यस्य सखा सख्य इत्यत्राप्यनुषंगात्तदपेक्षयेयं प्रथमेति चादिलोपे विभाषेति न निहन्यते । यद्वा । हि चेति निघातप्रतिषेधः । संख्ये । समाने ख्यश्चोदात्त इति सखिशब्द इण् प्रत्ययांत आद्युदात्तः । सुपः पित्त्वादनुदात्तत्वे स एव शिष्यते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०