मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २६, ऋक् ४

संहिता

आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
सीद॑न्तु॒ मनु॑षो यथा ॥

पदपाठः

आ । नः॒ । ब॒र्हिः । रि॒शाद॑सः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
सीद॑न्तु । मनु॑षः । य॒था॒ ॥

सायणभाष्यम्

हे अग्ने वरुणादयो देवास्त्वद्बंधवस्त्वया प्रेरिता रिशादसो हिंसकानदंतो नोऽस्मदीयं बर्हिर्यज्ञमासीदंतु । तत्र दृष्टांतः । यथा मनुषः प्रजापतेर्यज्ञमासीदंति । तद्वत् ॥ बर्ही रिशादसः । विसर्जनीयस्य रुत्वे कृते रो रि (पा ८-३-१४) इति रेफलोपः । ढ्रलोपे पूर्वस्य दीर्घोऽणः (पा ६-३-१११) इतीकारस्य दीर्घत्वम् । रिशादसः । रिश हिंसायाम् । रिशंति हिंसंतीति रिशाः शत्रवः । इगुपधज्ञाप्रीकिरः कः । तानदंतीति रिशादसः । सर्वधातुभ्योऽसुन् । कृदुत्तरपदप्रकृतिस्वरत्वम् । सीदंतु । षद्लृ विशरणगत्यवसादनेषु । पाघ्रेत्यादिना सीदादेशः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । मनुषः । मनु ज्ञाने । मन्यते जानातीति मनुः प्रजापतिः । जनेरुसिर्निच्च । उ २-११६-११८ । इत्यनुवृत्तौ बहुलमन्यत्रापि (उ २-१२२) इत्यौणादिक उसिप्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यथा । यथेति पादांते (फि ४-१७) इति सर्वानुदात्तत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०