मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २६, ऋक् ५

संहिता

पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च ।
इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ॥

पदपाठः

पूर्व्य॑ । हो॒तः॒ । अ॒स्य । नः॒ । मन्द॑स्व । स॒ख्यस्य॑ । च॒ ।
इ॒माः । ऊं॒ इति॑ । सु । श्रु॒धि॒ । गिरः॑ ॥

सायणभाष्यम्

हे पूर्व्य अस्मदादेः पूर्वमुत्पन्न होतर्होमनिष्पादकाग्ने नोऽस्मदीयस्यास्य प्रवर्तमानस्य यज्ञस्य सख्यस्य चास्मदनुग्रहस्य च सिद्ध्यर्थं मंदस्व । त्वं हृष्टो भव । इमा अस्माभिः प्रयुज्यमाना गिर उ षु स्तुतिरूपा वाचोऽपि श्रुधि शृणु ॥ पूर्व्य । आमंत्रिताद्युदात्तत्वम् । होतरित्यस्य नामंत्रिते समानाधिकरण इति पूर्वस्य विद्यमानत्वादष्वमिको निघातः । अस्य । ऊडिदमिति षष्ठ्या उदात्तत्वम् । मंदस्व । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । अपादादाविति पर्युदासादाष्टमिकनिघाताभावः । सख्यस्य । सख्युः कर्म सख्यम् । सख्युर्यः (पा ५-१-१२६) इति यप्रत्ययः । यस्येति लोपे प्रत्ययस्वरः । उ षु । सुञः (पा ८-३-१०७) इति षत्वम् । श्रुधि । श्रु श्रवणे । श्रुशृणुपृकृवृभ्यश्चंदसीति हेर्धिरादेशः । बहुलं छंदसीति शपो लुक् ॥ २० ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०