मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २६, ऋक् ६

संहिता

यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे ।
त्वे इद्धू॑यते ह॒विः ॥

पदपाठः

यत् । चि॒त् । हि । शश्व॑ता । तना॑ । दे॒वम्ऽदे॑वम् । यजा॑महे ।
त्वे इति॑ । इत् । हू॒य॒ते॒ । ह॒विः ॥

सायणभाष्यम्

हे अग्ने यच्चिद्धि यद्यपि शश्वता शाश्वतेन नित्येन तना विस्तृतेन हविषा देवं देवमन्यमन्यं वरुणेंद्रादिरूपं नानाविधं देवताविशेषं यजामहे तथापि तद्रविः सर्वं त्वे इत्त्वय्येव हूयते । अतो देवांतरविषयो यागोऽपि त्वदीयैव सेवेत्यर्थः ॥ तना । तनु विस्तारे । क्विप्चेति क्विप् । यद्वा । पचाद्यच् । सुपां सुलुगिति तृतीयाया आकारः । देवं देवम् । नित्यवीप्सयोरिति द्विर्भावः । तस्य परमाम्रेडितमित्युत्तरस्याम्रेडितसंज्ञायामनुदात्तं चेति सर्वानुदात्तत्वम् । यजामहे । निपातैर्यद्यदि हंतेति निघातप्रतिषेधः । त्वे । युष्मच्छब्दात्सप्तम्येकवचनस्य सुपां सुलुगिति शे आदेशः । त्वमावेकवचन इति मपर्यंतस्य त्वादेशः । शेषोलोपेऽतो गुण इति परपूर्वत्वम् । शे (पा १-१-१३) इति प्रगृह्यसंज्ञायां प्लुतप्रगृह्या अचि (पा ६-१-१२५) इति प्रकृतिभावः । हूयते । अकृत्सार्वधातुकयोः (पा ७-४-२५) इति दीर्घः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१