मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २६, ऋक् ७

संहिता

प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो वरे॑ण्यः ।
प्रि॒याः स्व॒ग्नयो॑ व॒यम् ॥

पदपाठः

प्रि॒यः । नः॒ । अ॒स्तु॒ । वि॒श्पतिः॑ । होता॑म् । म॒न्द्रः । वरे॑ण्यः ।
प्रि॒याः । सु॒ऽअ॒ग्नयः॑ । व॒यम् ॥

सायणभाष्यम्

विश्पतिर्विशां प्रजानां पालको होता होमनिष्पादको मंद्रो हृष्टो वरेण्यो वरणीयोऽग्निर्नोऽस्माकं प्रियोऽस्तु । वयमपि स्वग्नयः शोभनाग्नियुक्ताः संतस्तव प्रिया भूयास्मेति शेषः ॥ विश्पतिः ॥ पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरे प्राप्ते परादिश्चंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । वरेण्यः । वृञ एण्यः (उ ३-९८) पृषादित्वादाद्युदात्तत्वम् । स्वग्नयः । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१