मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २६, ऋक् ८

संहिता

स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः ।
स्व॒ग्नयो॑ मनामहे ॥

पदपाठः

सु॒ऽअ॒ग्नयः॑ । हि । वार्य॑म् । दे॒वासः॑ । द॒धि॒रे । च॒ । नः॒ ।
सु॒ऽअ॒ग्नयः॑ । म॒ना॒म॒हे॒ ॥

सायणभाष्यम्

स्वग्नयः शोभनाग्नियुक्ता देवासो दीप्यमाना ऋत्विजो नोऽस्मदीयं वार्यं वरणीयं हविर्हि यस्माद्दधिरे धृतवंतः तस्माद्वयं स्वग्नयः शोभनाग्नियुक्ताः संतो मनामहे । त्वां याचामहे ॥ वार्यम् । वृञ् वरणे । वृङ् संभक्तौ । ऋहलोर्ण्यत् । ईडवंदेत्यादिनाद्युदात्तत्वम् । दधिरे । इरेचश्चित्वादंतोदात्तत्वम् । हि चेति निघातप्रतिषेधः । मनामहे । मन ज्ञाने । व्यत्ययेन शप् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१