मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २६, ऋक् १०

संहिता

विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वचः॑ ।
चनो॑ धाः सहसो यहो ॥

पदपाठः

विश्वे॑भिः । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः॑ ।
चनः॑ । धाः॒ । स॒ह॒स॒ । य॒हो॒ इति॑ ॥

सायणभाष्यम्

सहसो बलस्य यहो पुत्र हे देवतारूपाग्ने विश्वेभिरग्निभिः सर्वैराहवनीयादिभिर्युक्तस्त्वमिममस्मदीयं यज्ञमिदमस्मदीयं वचः स्तोत्रं च सेवमानश्चनोऽन्नं धाः । अस्मभ्यं धेहि ॥ विश्वेभिः । बहुलं छंदसीति भिस ऐसादेशाभावः । चनः । चायृ पूजानिशामनयोः । चायेरन्ने ह्रस्वश्च (उ ४-१९९) इत्यसुन् । तत्सन्नि योगेन नुडागमश्च । नित्त्वादाद्युदात्तत्वम् । धाः । लुङि गातिस्था (पा २-४-७७) इति सिचो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । सहसो यहो इति सुबामंत्रित इति परांगवद्भावादामंत्रितस्य चेति षष्ठ्यामंत्रितसमुदायो निहन्यते ॥ २१ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१