मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २७, ऋक् २

संहिता

स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेवः॑ ।
मी॒ढ्वाँ अ॒स्माकं॑ बभूयात् ॥

पदपाठः

सः । घ॒ । नः॒ । सू॒नुः । शव॑सा । पृ॒थुऽप्र॑गामा । सु॒ऽशेवः॑ ।
मी॒ढ्वान् । अ॒स्माक॑म् । ब॒भू॒या॒त् ॥

सायणभाष्यम्

स घ स एवाग्निर्नोऽस्माकं सुशेवः सुसुखो भवत्विति शेषः । कीदृशः । शवसा बलस्य सूनुः पुत्रः पृथुप्रगामा पृथृप्रगमनः । किंचास्माकं मीढ्वान् कामानां वर्षिता बभूयात् । भवतु ॥ घा नः । ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् (पा ६-३-१३३) इति दीर्घः । शवसा । सुपाम् । सुपो भवंतीति ङसष्टादेशः । पृथुप्रगामा । प्रकर्षेण गमनं प्रगामः । हलश्चेति घञ् । पृथुः प्रगामा यस्यासौ पृथुप्रगामा । सुपां सुलुगिति पूर्वसवर्ण आकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुशेवः । इण्शीङ् भ्यां वन् (उ १-१५२) इति शेवशब्दो वन्प्रत्ययांत आद्युदात्तः । ततो बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वे प्राप्त आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । मीढ्वान् । मिह सेचन इत्यस्मात्क्वसुप्रत्ययांतो दाश्वान् साह्वान् मीढ्वांश्छेति निपातितः । बभूयात् । भवतेश्छांदसस्य लिटस्तिङां तिङो भवंति (म ७-१-३९) इति लिङादेशः । यासुट् स्थानिवद्भावादार्धधातुकत्वाच्छबभावः । द्विर्वचने भवतेरः (पा ७-४-७३) इत्यत्वम् । तिङ्ङतिङ इति निघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२