स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः ।
पा॒हि सद॒मिद्वि॒श्वायु॑ः ॥
सः । नः॒ । दू॒रात् । च॒ । आ॒सात् । च॒ । नि । मर्त्या॑त् । अ॒घ॒ऽयोः ।
पा॒हि । सद॑म् । इत् । वि॒श्वऽआ॑युः ॥
हे अग्ने विश्वायुर्व्याप्तगमनः स त्वं दूराच्च दूरेऽपि आसाच्चासन्नदेशेऽपि अघायोरघं पापमनिष्टं कर्तुमिच्छतो मर्त्यान्मनुष्याद्वैरिणो नोऽस्मान्सदमित् सर्वदैव नि पाहि । नितरां पालय ॥ अघायोः । सुप आत्मनः क्यच् । अश्वाघस्यात् (पा ७-४-३७) इत्यात्वम् । पाहि । पादादित्वादनिघातः । विश्वायुः । इण् गतावित्यस्माद्भावे एतेर्णिच्च (उ २-११९) इत्युसिः । विश्वमयनं गगनं यस्येति बहुव्रीहिः । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वं ॥ ३ ॥