मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २७, ऋक् ५

संहिता

आ नो॑ भज पर॒मेष्वा वाजे॑षु मध्य॒मेषु॑ ।
शिक्षा॒ वस्वो॒ अन्त॑मस्य ॥

पदपाठः

आ । नः॒ । भ॒ज॒ । प॒र॒मेषु॑ । आ । वाजे॑षु । म॒ध्य॒मेषु॑ ।
शिक्ष॑ । वस्वः॑ । अन्त॑मस्य ॥

सायणभाष्यम्

हे अग्ने परमेषूत्कृष्वेषु द्युलोकवर्तिषु वाजेष्वन्नेषु नोऽस्मानाभज । सर्वतः प्रापय । मध्यमेष्वंतरिक्षलोकवर्तिषु वाजीष्वा भज । अंतमस्यांतिकतमस्य भूलोकस्य संबंधीनि वस्वो वसूनि शिक्ष । देहि ॥ शिक्ष । शिक्ष विद्योपादाने । शपः पित्त्वाद्धातुस्वरः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । अंतमस्य । अंतिकतमस्य तमे तादेश्च । पा ६-४-१४९-९ । इति तिकशब्दलोपः ॥ २२ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२