मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २७, ऋक् ६

संहिता

वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो॑रू॒र्मा उ॑पा॒क आ ।
स॒द्यो दा॒शुषे॑ क्षरसि ॥

पदपाठः

वि॒ऽभ॒क्ता । अ॒सि॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । सिन्धोः॑ । ऊ॒र्मौ । उ॒पा॒के । आ ।
स॒द्यः । दा॒शुषे॑ । क्ष॒र॒सि॒ ॥

सायणभाष्यम्

हे चित्रभानो विचित्ररश्मियुक्ताग्ने विभक्ता विशिष्टस्य धनस्य प्रापयितासि । तत्र दृष्टांत उच्यते । आकार उपमार्थः । यथा सिंधोर्नद्या उपाके समीप ऊर्मावूर्मिं तरंगोपलक्षितं कुल्यादिप्रवाहं विभजंति तद्वत् । दाशुषे । हविर्दत्तवते यजमानाय सद्यस्तदानीमेव क्षरसि । कर्मफलभूतां वृष्टिं करोषि ॥ सिंधोः । स्यंदू प्रस्रवणे । स्यंदेः संप्रसारणं धश्च (उ १-१२) इत्युप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । ऊर्मिः । अर्तेरूच्च (उ ४-४४) इति मिः । प्रत्यय स्वरः । दाशुषे । धृतव्रताय दाशुषे । ऋग्वे १-२५-६ । इत्यत्रोक्तं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३