मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २७, ऋक् ७

संहिता

यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः ।
स यन्ता॒ शश्व॑ती॒रिषः॑ ॥

पदपाठः

यम् । अ॒ग्ने॒ । पृ॒त्ऽसु । मर्त्य॑म् । अवाः॑ । वाजे॑षु । यम् । जु॒नाः ।
सः । यन्ता॑ । शश्व॑तीः । इषः॑ ॥

सायणभाष्यम्

हे अग्ने पृत्सु संग्रामेषु यं मर्त्यं यजमानमवा अवसि रक्षसि । यं पुरुषं वाजेषु संग्रामेषु जुनाः प्रेरयसि । स नरो यजमानः शाश्वतीरिषो नित्यान्यन्नानि यंता । नियंतुं समर्थो भवति ॥ पृत्सु । पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् । पा ६-१-६३-१ । इति पृतनाशब्दस्य पृदादेशः । सावेकाच इति विभक्तेरुदात्तत्वम् । अवाः । आवः । अकाराकारयोर्विपर्ययः । यद्वा । लेट्याडागमः । इतश्चेति सिप इकारस्य लोपः । जुनाः । जू इति गत्यर्थः सौत्रो धातुः । लङः सिप् । क्रादिभ्यः श्ना । बहुलं छंदस्यमाङ्योगेऽपीत्यडागमाभावः । यद्वृत्तयोगादनिघातः । यंता तृनो नित्त्वादाद्युदात्तत्वम् । शश्वतीः । उगितश्चेति ङीप् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३