मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २७, ऋक् ८

संहिता

नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित् ।
वाजो॑ अस्ति श्र॒वाय्य॑ः ॥

पदपाठः

नकिः॑ । अ॒स्य॒ । स॒ह॒न्त्य॒ । प॒रि॒ऽए॒ता । कय॑स्य । चि॒त् ।
वाजः॑ । अ॒स्ति॒ । श्र॒वाय्यः॑ ॥

सायणभाष्यम्

हे सहंत्य शत्रूणामभिभवनशीलाग्ने अस्य त्वद्भक्तस्य यजमानस्य कयस्य चिक्कस्यापि पर्येता नकिः । आक्रमिता नास्ति । किंचास्य यजमानस्य श्रवाय्यः श्रवणेयो वाजोऽस्ति । बलविशेषोऽस्ति ॥ कयस्य । यकारोपजनश्छांदसः । श्रवाय्यः । श्रुदक्षिस्पृहिग्रहिभ्य आय्यः (उ ३-९५) इत्याय्यप्रत्ययः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३