मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २७, ऋक् ९

संहिता

स वाजं॑ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता ।
विप्रे॑भिरस्तु॒ सनि॑ता ॥

पदपाठः

सः । वाज॑म् । वि॒श्वऽच॑र्षणिः । अर्व॑त्ऽभिः । अ॒स्तु॒ । तरु॑ता ।
विप्रे॑भिः । अ॒स्तु॒ । सनि॑ता ॥

सायणभाष्यम्

विश्वचर्षणिः सर्वैर्मनुष्यैरुपेतः सोऽग्निरर्वद्भरश्वैर्वाजं संग्रामं तरुता तारयितास्तु । विप्रेभिर्मेधाविभिर्ऋृत्विग्भिः सहितस्तुष्वोग्निः सनिता फलस्य दातास्तु ॥ विश्वचर्षणिः । विश्वे चर्षणयो यस्य । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । अर्वद्भिः । ऋ गतौ । अन्येभ्योऽपि दृश्यंत इति वनिप् । भिस्यर्वणस्त्रसावनञः (पा ६-४-१२७) इति नकारस्य तृ इत्ययमादेशः । तरुता । तृप्लवनतरणयोः । अस्माद्ग्रसितस्कभितेत्यादौ (पा ७-२-३४) तृनंतो निपातितः । निपातनादेवेकारस्योत्वं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३