मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २७, ऋक् १०

संहिता

जरा॑बोध॒ तद्वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञिया॑य ।
स्तोमं॑ रु॒द्राय॒ दृशी॑कम् ॥

पदपाठः

जरा॑ऽबोध । तत् । वि॒वि॒ड्ढि॒ । वि॒शेऽवि॑शे । य॒ज्ञिया॑य ।
स्तोम॑म् । रु॒द्राय॑ । दृशी॑कम् ॥

सायणभाष्यम्

अप्तोर्यामे होतुरतिरिक्तोक्थे जराबोध तद्विविढ्ढीति स्तोत्रियस्तृचः । यस्य पशवो नोपधरेरन्निति खंडे सूत्रितम् । अतिरिक्तोक्थानि जराबोध तद्विविड्डि (आ ९-११) इति ॥

हे जराबोध जरया स्तुत्या बोधमानाग्ने विशेविसे तत्तद्यजमानरूपप्रजानुग्रहार्थं यज्ञियाय यज्ञ संबंध्यनुष्ठानसिद्ध्यर्थं तदेव यजनं विविड्ढि । प्रविश । यजमानोऽपि रुद्राय क्रूरायाग्नये तुभ्यं दृशीकं दर्शनीयं समीचीनं स्तोमं स्तोत्रं करोतीति शेषः । अत्र यास्क एवं व्याख्यातवान् । जरा स्तुतिर्जरतेः स्तुतिकर्मणस्तां बोध तया बोधयितरिति वा तद्विविड्ढि तत्कुरु मनुष्यस्य मनुष्यस्य यजनाय स्तोमं रुद्राय दर्शनीयम् । नि १०-८ । इति ॥ जराबोध । जृष् वयोहानौ । अत्र तु स्तुत्यर्थः । षिद्भिदादिभ्योऽङ् (पा ३-३-१०४) इत्यङ् प्रत्ययः । ततष्वाप् । जरया स्तुत्या बोधो यस्यासौ जराबोधः । यद्वा । जरया बोध्यत इति जराबोधः । कर्मणि घञ् । आमंत्रिताद्युदात्तत्वम् । विविड्ढिविश प्रवेशने । लोटो हि । बहुलं छंदसीति शपः श्लुः । अभ्यासहलादिशेषौ । हुझल्भ्यो हेर्धिरिति हेर्धिरादेशः । षत्वष्टुत्वे । यद्वा । विष्लृ व्याप्तावित्यस्मालोण्मध्यमैकवचनेऽभ्यासस्य गुणाभावः । विशे विशे । सावेकाच इति चतुर्थ्या उदात्तत्वम् । अनुदात्तं चेत्याम्रेडितानुदात्तत्वम् । यज्ञियाय । यज्ञर्त्विग्भ्यां फखञौ (पा ५-१-७१) इति घः । दृशीकम् । अनिदृशिभ्यां चेति कीकन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ २३ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३