मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २७, ऋक् १२

संहिता

स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्य॑ः के॒तुः शृ॑णोतु नः ।
उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥

पदपाठः

सः । रे॒वान्ऽइ॑व । वि॒श्पतिः॑ । दैव्यः॑ । के॒तुः । शृ॒णो॒तु॒ । नः॒ ।
उ॒क्थैः । अ॒ग्निः । बृ॒हत्ऽभा॑नुः ॥

सायणभाष्यम्

सोऽग्निरुक्थैः स्तोत्रैर्युक्तान् नोऽस्मान् शृुणोतु । तत्र दृष्टांतः । रेवानिव । यथा लोके धनवान् राजा वंदिनां स्तोत्रं शृणोति तद्वत् । कीदृशः । विश्पतिः प्रजापालको दैव्यो देवानां संबंधी । अग्निर्वै देवानां होता । ऐ ब्रा ३-१४ । इति श्रुत्यंतरात् । केतुर्दूतवज्ज्ञा पकः । अग्निर्वै देवानां दूत आसीत् । तै सं २-५-८-५ । इति श्रुतेः । बृहद्भानुः । प्रौढरश्मिः ॥ स रेवान् । एतत्तदोः (पा ६-१-१३२) इति सोर्लोपः । रयेर्मतौ बहुलमिति संप्रसारणम् । परपूर्वत्वम् । आद्गुणः । छंदसीर इति मतुपो वत्वम् । आरेशब्दाच्च मतुप उदात्तत्वम् । विश्पतिः । परादिश्छंदसि । बहुलमित्युत्तरपदाद्युदात्तत्वम् । बृहद्भानुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४