मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २८, ऋक् १

संहिता

यत्र॒ ग्रावा॑ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे ।
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥

पदपाठः

यत्र॑ । ग्रावा॑ । पृ॒थुऽबु॑ध्नः । ऊ॒र्ध्वः । भव॑ति । सोत॑वे ।
उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊं॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥

सायणभाष्यम्

हे इंद्र यत्र यस्मिन्नंजःसवे कर्मणि सोतवेऽभिषवार्थं ग्रावा पाषाणः पृथुबुध्नः स्थूलमूल ऊर्ध्व उन्नतो भवति तस्मिन्कर्मण्युलूखलसुतानामुलूखलेनाभिषुतानां रसमवेत् स्वकीयत्वेनावगत्यैव जल्गुलः । भक्षय ॥ पृथुबुध्नः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । भवति । निपातैर्यद्यदिहंतेति निघातप्रतिषेधः । सोतवे । षुञ् अभिषवे । तुमर्थे सेसेनिति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । उलूखलसुतानाम् । उलूखलेन सुतानाम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । जल्लुलः । गल अदने । अस्मद्यङो लुकि लेण्मध्यमैकवचने लेटोऽडाटावित्यडागमः । इतश्च लोप इतीकारलोपः । उपधाया उत्वं च हलादिशेषाभावश्च पृषोदरादित्वात् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५