मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २८, ऋक् २

संहिता

यत्र॒ द्वावि॑व ज॒घना॑धिषव॒ण्या॑ कृ॒ता ।
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥

पदपाठः

यत्र॑ । द्वौऽइ॑व । ज॒घना॑ । अ॒धि॒ऽस॒व॒न्या॑ । कृ॒ता ।
उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊं॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥

सायणभाष्यम्

यत्र यस्मिन्कर्मण्यधिषवण्या उभे अधिषवणफलके द्वाविव जघना द्वौ जघनप्रदेशाविव । जघनं जंघन्यतेरिति यास्कः (नि ९-२०) कृता विस्तीर्णे कृते संपादिते । अन्यत्पूर्ववत् ॥ जघना । हंतेः शरीरावयवे द्वे च (उ ५-३२) इति हन्धातोरच् । द्वित्वम् । कर्दमादित्वान्मध्योदात्तः (फि ३-१०) सुपां सुलुगित्याकारः । अधिषवण्या । षुञ् अभिषवे । ल्युट् । भवे छंदसीति यत् । उपसर्गात्सुनोतीति षत्वम् । तित्स्वरित इति स्वरितः । न च यतोऽनाव इत्याद्युदात्तत्वम् । तत्र हि निष्ठा च द्व्यजनात् (पा ६-१-२०५) इत्यस्यानुवृत्तेर्द्व्यच् कस्यैव तदिति । कृता । पूर्ववदाकारः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५