मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २८, ऋक् ३

संहिता

यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते ।
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥

पदपाठः

यत्र॑ । नारी॑ । अ॒प॒ऽच्य॒वम् । उ॒प॒ऽच्य॒वम् । च॒ । शिक्ष॑ते ।
उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊं॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥

सायणभाष्यम्

यत्र यस्मिन्कर्मणि नारी पत्न्यपच्यवं शालाया निर्गमनमुपच्यवं च शालाप्राप्तिं च शिक्षते अभ्यासं करोति । अन्यत्पूर्ववत् ॥ अपच्यवम् । च्युङ् गतौ । यादोरबित्यप् । गुणावादेशौ । थाथादिना (पा ६-२-१४४) उत्तरपदांतोदात्तत्वम् । एवमुपच्यवम् । शिक्षते । शिक्ष विद्योपादाने । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । निपातैर्यद्यदिहंतेति निघातप्रतिषेधः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५