मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २८, ऋक् ५

संहिता

यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू॑खलक यु॒ज्यसे॑ ।
इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुन्दु॒भिः ॥

पदपाठः

यत् । चि॒त् । हि । त्वम् । गृ॒हेऽगृ॑हे । उलू॑खलक । यु॒ज्यसे॑ ।
इ॒ह । द्यु॒मत्ऽत॑मम् । व॒द॒ । जय॑ताम्ऽइव । दु॒न्दु॒भिः ॥

सायणभाष्यम्

हे उलूखलक यच्चिद्धि यद्यपि त्वममघातार्थं गृहे गृहे युज्यसे तथापीह वैदिके कर्मणि तीव्रमुसलप्रहारेण द्युमत्तममतिशयेन दीप्तं प्रभूतध्वनियुक्तं शब्दं वद । तत्र दृष्टांतः । जयतामिव दुंदुभिः । यथा युद्धे जयं प्राप्नुवतां राज्ञां दुंदुभिर्महांतं ध्वनिं करोति तद्वत् । उलूखलशब्दं यास्क एवं व्याख्यातवान् । उलूखलमुरुकरं वोर्ध्वखं वोर्क्करं वोरु मे कुर्वित्यब्रवीत्तदुलूखलमभवदुरुकरं वै तत्तदुलूखलमित्याचक्षते परोक्षेणेति च ब्राह्मणम् (नि ९-२०) इति ॥ उलूखलक । अपादादाविति पर्युदासादाष्टमिकनिघाताभाव षाष्ठिकमाद्युदात्तत्वम् । युज्यसे । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे यक्स्वरः शिष्यते । न च तिङ्ङतिङ इति निघातः । निपातैर्यद्यदिहंतेति प्रतिषेधात् । द्युमत्तमम् । दीप्यतेर्धीप्त्यर्थस्य संपदादिलक्षणः क्विप् । दिव उत् (पा ६-१-१३१) इत्युत्वम् । यणादेशे ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । ननु दिव उदित्यत्र प्रातिपदिकं गृह्यते न धातुरित्युक्तत्वात् । अक्षद्यूरित्यादाविवात्राप्यूटा भवितव्यम् (पा ६-४-१९) एवं तर्हि दीप्तिमत्स्वर्गवाचकेन दिव् प्रातिपदिकेन दीप्तिर्लक्ष्यत इत्युत्वं भविष्यति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५