मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २८, ऋक् ७

संहिता

आ॒य॒जी वा॑ज॒सात॑मा॒ ता ह्यु१॒॑च्चा वि॑जर्भृ॒तः ।
हरी॑ इ॒वान्धां॑सि॒ बप्स॑ता ॥

पदपाठः

आ॒य॒जी इत्या॑ऽय॒जी । वा॒ज॒ऽसात॑मा । ता । हि । उ॒च्चा । वि॒ऽज॒र्भृ॒तः ।
हरी॑ इ॒वेति॒ हरी॑ऽइव । अन्धां॑सि । बप्स॑ता ॥

सायणभाष्यम्

ये उलूखलमुसले आयजी सर्वतो यज्ञ साधने वाजसातमा अतिशयेनान्नप्रदे ता हि ते खलूच्चा प्रौढध्वनिर्यथा भवति तथा विजर्भृतः । विशेषेण पुनःपुनर्विहारं कुरुतः । तत्र दृष्टांतः । अंधांस्यन्नानि चणकादीनि खाद्यानि बप्सता भक्षयंतौ हरी इव इंद्रस्याश्वाविव । अत्र यास्क एवं व्याचख्यौ । आयजी आयष्टव्ये अन्नानां संभक्तृतमे ते ह्युच्चैर्विह्रियेते हरी इवान्नानि भुंजाने (नि ९-३६) इति ॥ आयजी । यजेरौणादिकः करण इप्रत्ययॆः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वाजसातमा । वाजं सनोतीति वाजसाः । षणु दाने । जनसनेत्यादिना विट् प्रत्ययः । विड्वनोरनुनासिकस्यादित्यात्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आतिशायनिकस्तमप् । सुपां सुलुगिति पूर्वसवर्णदीर्घः ॥ विजर्भृतः । हृञ् हरणे । अस्माद्यङ् लुक्यभ्यासहलादिशेषोरत् जश्त्वेषु कृतेषु रुग्रिकौ च लुकि (पा ७-४-९१) इति रुगागमः । ततः प्रत्ययलक्षणेन धातुसंज्ञायां लिट द्विवचनं तस् । अदादिवच्चेति वचनाच्छपो लुक् । गुणे प्राप्ते क्ङिति चेति प्रतिषेधः । हृग्रहोर्भश्छंदसीति भत्वम् । प्रत्ययस्वरः । हि चेति निघातप्रतिषेधः । बप्सता । भस भक्षणदीप्त्योः । लटः शतृ । जुहोक्यादिभ्यः श्लुः । घसिभसोर्हलि च (पा ६-४-१००) इत्युपधालोपः । नाभ्यस्ताच्छतुः (पा ७-१-७८) इति नुम्प्रतिषेधः । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६