मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २८, ऋक् ९

संहिता

उच्छि॒ष्टं च॒म्वो॑र्भर॒ सोमं॑ प॒वित्र॒ आ सृ॑ज ।
नि धे॑हि॒ गोरधि॑ त्व॒चि ॥

पदपाठः

उत् । शि॒ष्टम् । च॒म्वोः॑ । भ॒र॒ । सोम॑म् । प॒वित्रे॑ । आ । सृ॒ज॒ ।
नि । धे॒हि॒ । गोः । अधि॑ । त्व॒चि ॥

सायणभाष्यम्

हे ऋत्विग्विशेष हरिश्चंद्रदेवतापक्षे हे हरिश्चंद्रेति वा चम्वोः सोमस्य भक्षत्वसंपादकयोरधिषवणफलकयोः शिष्टमभिषवराहित्येनावशिष्टं सोममुद्भर । शकटस्योपरि हर । सोममभिषुतं सोमं पवित्रे दशापवित्र आ सृज । आनीय प्रक्षिप । प्रक्षेपे सत्यवशिष्टं सोमं गोस्त्वच्यानडुहे चर्मण्यधि नि धेहि । अध्यारोप्य स्थापय ॥ चम्वोः । चमु अदने । चम्यते भक्ष्यतेऽत्रेति चमूः । कृषिच मीत्यादिना (उ १-८२) औणादिक उप्रत्ययः । प्रत्ययस्वरः । सप्तमीद्विवचनस्योदात्तस्वरितयोर्यणः स्वरित इति स्वरितत्वम् । उदात्तयणो हल्पूर्वादिति व्यत्ययेन न भवति । भर । हृग्रहोर्भः । धेहि । ध्वसोरेद्धावभ्यासलोपश्च (पा ६-४-११९) इत्येत्वाभ्यासलोपौ । निघातः । त्वचि । सावेकाच इति विभक्तेरुदात्तत्वं ॥ २६ ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६