मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २९, ऋक् २

संहिता

शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

पदपाठः

शिप्रि॑न् । वा॒जा॒ना॒म् । प॒ते॒ । शची॑ऽवः । तव॑ । दं॒सना॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

सायणभाष्यम्

हे शचीवः शक्तिमन् शिप्रिन् शोभनहनूयुक्त वाजानां पतेऽन्नानां पालक तव दंसना कर्मविशेषोऽनुग्रहरूपः सर्वदा वर्तते । आन्यत्पूर्ववत् ॥ शिप्रिन् । शिप्रे हनू नासिके वा (नि ९-१७) इति यास्कः । अत इनिठनाविति मत्वर्थीय इनिः । आमंत्रिताद्युदात्तत्वम् । वाजानां पते । सुबामंत्रित इति परांगवद्भावात् षष्ठ्यामंत्रितसमुदायनिघातः । न चामंत्रितं पूर्वमविद्यमानवदिति शिप्रिन्नित्यस्याविद्यमानवत्त्वेन पदादपरत्वात्पादादित्वाच्च न निघातः । नामंत्रिते समानाधिकरणे सामान्यवचनमित्यविद्यमानवत्त्वप्रतिषेधात् । शचीवः । छंदसीर इति मतुपो षत्वम् । मतुवसो रुरिति रुत्वे खरवसानयोर्विसर्जनीयः (पा ८-३-१५) पादादित्वादामंत्रितनिघाताभावः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७