मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २९, ऋक् ४

संहिता

स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तयः॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

पदपाठः

स॒सन्तु॑ । त्याः । अरा॑तयः । बोध॑न्तु । शू॒र॒ । रा॒तयः॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

सायणभाष्यम्

त्या अस्माभिरदृश्यमानाः परोक्षास्ता अरातयोऽदानशीलाः शत्रवः ससंतु । निद्रां कुर्वंतु । हे शूर शौर्ययुक्तेंद्र रातयो दानशीला बंधवो बोधंतु । अस्मान्बुध्यंताम् । अन्यत्पूर्ववत् ॥ ससंतु । प्रत्ययस्वरः । अरातयः । रा दाने । मंत्रे वृषेत्यादिना भावे क्तिन् । न विद्यते रातिरेष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नञ् सुभ्यामिति तु सर्वे विधयश्छंदसि विकल्प्यंत इति न भवति । यद्वा । क्तिच् क्ता च संज्ञायामिति कर्तरि क्तिच् । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधंतु । पादादित्वात्तिङ्ङतिङ इति निघाताभावः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७