मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २९, ऋक् ५

संहिता

समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

पदपाठः

सम् । इ॒न्द्र॒ । ग॒र्द॒भम् । मृ॒ण॒ । नु॒वन्त॑म् । पा॒पया॑ । अ॒मु॒या ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

सायणभाष्यम्

हे इंद्र अमुयानयास्माभिः श्रूयमाणया पापया निंदारूपया वाचा नुवंतं स्तुवंतम् । अपकीर्तिं प्रकटयंतमित्यर्थः । तादृशं गर्दभं गर्दभसमानवैरिणं सं मृण । सम्यक् मारय । यथा गर्दभः श्रोतुमशक्यं परुषं शब्दं करोति तथा शत्रुरपि । अन्यत्पूर्ववत् ॥ गर्दभं नर्द गर्द शब्दे । कृगृशृशलिगर्दिभ्योऽभट् (उ ३-१२२) चित इत्यंतोदात्तत्वम् । मृण । मृण हिंसायाम् । तौदादिकः । तस्य ङित्त्वाद्गुणाभावः । नुवंतम् । णु स्तुतौ । शतर्यदिप्रभृतित्वाच्छपो लुक् । शतुर्ङित्त्वाद्गुणाभाव उवङादेशः । प्रत्ययाद्युदात्तत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७