मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २९, ऋक् ६

संहिता

पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

पदपाठः

पता॑ति । कु॒ण्डृ॒णाच्या॑ । दू॒रम् । वातः॑ । वना॑त् । अधि॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

सायणभाष्यम्

वातोऽस्मत्प्रतिकूलो वायुः कुंडृणाच्या कुटलगत्या स त्वस्मान्परित्यज्य वनादध्यरण्यादप्यधिकं दूरं देशं पताति । पततु । अन्यत्पूर्ववत् ॥ पताति । लेट्याडागमः । कुंडृणाच्या । कुडि दाहे । अस्मात् ल्युडंते कुंडनशब्दे डकारात्परस्याकारस्य ऋकारश्छांदसः । ऋवर्णाच्चेति वक्तव्यमिति णत्वम् । तदंचतीति कुंडृणाची । ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपेंऽचतेश्चेति वक्तव्यंः । पा ४-१-६-२ । इति ङीप् । अचः (पा ६-४-१३८) इत्यकारलोपः । चौ (पा ६-३-१३८) इति पूर्वपदस्य दीर्घत्वम् । चौ (पा ६-१-२२२) इत्याकारस्योदात्तत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७