मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २९, ऋक् ७

संहिता

सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्व॑म् ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

पदपाठः

सर्व॑म् । प॒रि॒ऽक्रो॒शम् । ज॒हि॒ । ज॒म्भय॑ । कृ॒क॒दा॒श्व॑म् ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

सायणभाष्यम्

परिक्रोशमस्मद्विषये सर्वत आक्रोशकर्तारं सर्वं पुरुषं जहि । मारय । कृकदाश्वमस्मद्विषये हिंसाप्रदं शत्रुं जंभय । मारय । अन्यत्पूर्ववत् ॥ परिक्रोशम् । क्रुश आह्वाने । परितः क्रोशयतीति परिक्रोशः । पचाद्यच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जहि । हन हिंसागत्योः । हंतेर्जः (पा ६-४-३६) इति जादेशः । तस्यासिद्धत्वात्स्वार्थिको णिच् । शपः पित्त्वादनुदात्तत्वे णिच एव स्वरः शिष्यते । कृकदाश्वं कृञ् हिंसायाम् । कृदाधारार्चिकलिभ्यः कन् (उ ३-४०) इति भावे कन्प्रत्यये । किदित्यनुवृत्तेर्गुणाभावः । तथा च कृतो हिंसा । तां दाशति प्रयच्छतीति कृकदाशुः । बहुलग्रहणाद्दाशतेरपि कृक उपपदे कृके वचः कश्च (उ १-६) इत्युण् । प्रत्यय स्वरेणोदात्तः । द्वितीयायाममि पूर्वत्वे प्राप्ते वा छंदसीति तस्य बाधितत्वाद्यणादेशः । उदात्तस्वरितयोर्यण इति विभक्तेः स्वरितत्वं ॥ २७ ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७